मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८०, ऋक् ३

संहिता

एन्द्र॑स्य कु॒क्षा प॑वते म॒दिन्त॑म॒ ऊर्जं॒ वसा॑न॒ः श्रव॑से सुम॒ङ्गलः॑ ।
प्र॒त्यङ्स विश्वा॒ भुव॑ना॒भि प॑प्रथे॒ क्रीळ॒न्हरि॒रत्य॑ः स्यन्दते॒ वृषा॑ ॥

पदपाठः

आ । इन्द्र॑स्य । कु॒क्षा । प॒व॒ते॒ । म॒दिन्ऽत॑मः । ऊर्ज॑म् । वसा॑नः । श्रव॑से । सु॒ऽम॒ङ्गलः॑ ।
प्र॒त्यङ् । सः । विश्वा॑ । भुव॑ना । अ॒भि । प॒प्र॒थे॒ । क्रीळ॑न् । हरिः॑ । अत्यः॑ । स्य॒न्द॒ते॒ । वृषा॑ ॥

सायणभाष्यम्

अयं सोमः इन्द्रस्यकुक्षा कुक्षौ आपवते आसिच्यते किमर्थं श्रवसे तस्यान्नाय यष्टुर्वा- न्नसिध्यर्थं सोमोविशेष्यते—मदिन्तमः मादयितृतमः ऊर्जंवसानः बलकरं रसमाच्छादयन् । अपोवसानइतिह्युक्तम् । सुमंगलः शोभनमंगलप्रदः ससोमः प्रत्यङ् विश्वाभुवना सर्वाणिभूत- जातानि अभिपप्रथे अभिप्रथयति दिव्युदितःसन् क्रीळन् वेद्यां संक्रीडमानोहरिर्हरितवर्णः अत्यः अतनकुशलः वृषावर्षकः स्यन्दते रसरूपेद्ण ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः