मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८०, ऋक् ४

संहिता

तं त्वा॑ दे॒वेभ्यो॒ मधु॑मत्तमं॒ नरः॑ स॒हस्र॑धारं दुहते॒ दश॒ क्षिपः॑ ।
नृभि॑ः सोम॒ प्रच्यु॑तो॒ ग्राव॑भिः सु॒तो विश्वा॑न्दे॒वाँ आ प॑वस्वा सहस्रजित् ॥

पदपाठः

तम् । त्वा॒ । दे॒वेभ्यः॑ । मधु॑मत्ऽतमम् । नरः॑ । स॒हस्र॑ऽधारम् । दु॒ह॒ते॒ । दश॑ । क्षिपः॑ ।
नृऽभिः॑ । सो॒म॒ । प्रऽच्यु॑तः । ग्राव॑ऽभिः । सु॒तः । विश्वा॑न् । दे॒वान् । आ । प॒व॒स्व॒ । स॒ह॒स्र॒ऽजि॒त् ॥

सायणभाष्यम्

हे सोम तं तादृशं त्वा त्वां देवेभ्यः इन्द्राद्यर्थं मधुमत्तमं अतिशयेन मधुमन्तं सहस्र- धारं बहुधारायुक्तं दुहते दुहन्ति । के नरोनेतारः ऋत्विजोदशक्षिपः तेषां दशसंख्याका अंगुलयश्च हे सोम नृभिर्मनुष्यैः प्रच्युतोग्रावभिः सुतोभिषुतस्त्वं सहस्रजित् सहस्रसंख्या- कस्यधनस्य जेता सन् विश्वान् देवान् आपवस्व ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः