मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८१, ऋक् १

संहिता

प्र सोम॑स्य॒ पव॑मानस्यो॒र्मय॒ इन्द्र॑स्य यन्ति ज॒ठरं॑ सु॒पेश॑सः ।
द॒ध्ना यदी॒मुन्नी॑ता य॒शसा॒ गवां॑ दा॒नाय॒ शूर॑मु॒दम॑न्दिषुः सु॒ताः ॥

पदपाठः

प्र । सोम॑स्य । पव॑मानस्य । ऊ॒र्मयः॑ । इन्द्र॑स्य । य॒न्ति॒ । ज॒ठर॑म् । सु॒ऽपेश॑सः ।
द॒ध्ना । यत् । ई॒म् । उत्ऽनी॑ताः । य॒शसा॑ । गवा॑म् । दा॒नाय॑ । शूर॑म् । उ॒त्ऽअम॑न्दिषुः । सु॒ताः ॥

सायणभाष्यम्

सोमस्य पवमानस्य पूयमानस्य ऊर्मयोरसप्रवाहः इन्द्रस्य जठरं प्रयन्ति प्रगच्छन्ति सुपेशसः सुरूपाऊर्मयइतिसंबंधः यद्यदा ईमेतेसुताअभिषुताः सोमाः गवां यशसा बलभूतेन दध्नासदोन्नीताः सन्तोदानाय यजमानविषयाभिमतदानाय शूरं विक्रान्तमिन्द्रं उदमन्दिषुः उन्मादयन्ति तदा जठरंयन्ति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः