मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८१, ऋक् ३

संहिता

आ नः॑ सोम॒ पव॑मानः किरा॒ वस्विन्दो॒ भव॑ म॒घवा॒ राध॑सो म॒हः ।
शिक्षा॑ वयोधो॒ वस॑वे॒ सु चे॒तुना॒ मा नो॒ गय॑मा॒रे अ॒स्मत्परा॑ सिचः ॥

पदपाठः

आ । नः॒ । सो॒म॒ । पव॑मानः । कि॒र॒ । वसु॑ । इन्दो॒ इति॑ । भव॑ । म॒घऽवा॑ । राध॑सः । म॒हः ।
शिक्ष॑ । व॒यः॒ऽधः॒ । वस॑वे । सु । चे॒तुना॑ । मा । नः॒ । गय॑म् । आ॒रे । अ॒स्मत् । परा॑ । सि॒चः॒ ॥

सायणभाष्यम्

आकिर सर्वतोविक्षिप नोस्मभ्यम् । हे सोम पवमानः पूयमानस्त्वम् । किंच वसुवासकंधनं गवादिरूपम् । किंच हे इन्दो दीप्तसोम मघवा धनवांस्त्वं महोमहतो राधसोधनस्यभव । दातेतिशेषः । तथा हे वयोधाः अन्नस्यधातः सोम वसवे वासकाय परिचरतेमह्यं चेतुना कष्टेन प्रज्ञानेन सु सुखं कल्याणं शिक्ष देहि । नोस्मभ्यं प्रदेयं गयं धनं अस्मदारे अस्मत्तो दूरं मापरासिचः माप्रेरय ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः