मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८१, ऋक् ४

संहिता

आ नः॑ पू॒षा पव॑मानः सुरा॒तयो॑ मि॒त्रो ग॑च्छन्तु॒ वरु॑णः स॒जोष॑सः ।
बृह॒स्पति॑र्म॒रुतो॑ वा॒युर॒श्विना॒ त्वष्टा॑ सवि॒ता सु॒यमा॒ सर॑स्वती ॥

पदपाठः

आ । नः॒ । पू॒षा । पव॑मानः । सु॒ऽरा॒तयः॑ । मि॒त्रः । ग॒च्छ॒न्तु॒ । वरु॑णः । स॒ऽजोष॑सः ।
बृह॒स्पतिः॑ । म॒रुतः॑ । वा॒युः । अ॒श्विना॑ । त्वष्टा॑ । स॒वि॒ता । सु॒ऽयमा॑ । सर॑स्वती ॥

सायणभाष्यम्

सुरातयः सुदानाः सजोषसः संगताः पूषादयोदेवा आगच्छन्तु नोस्मानस्माकंयज्ञंवा । तथा सुयमा यम्यते नियम्यतइति यमोविग्रहः सुविग्रहा सरस्वती चागच्छतु ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः