मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८२, ऋक् ३

संहिता

प॒र्जन्य॑ः पि॒ता म॑हि॒षस्य॑ प॒र्णिनो॒ नाभा॑ पृथि॒व्या गि॒रिषु॒ क्षयं॑ दधे ।
स्वसा॑र॒ आपो॑ अ॒भि गा उ॒तास॑र॒न्त्सं ग्राव॑भिर्नसते वी॒ते अ॑ध्व॒रे ॥

पदपाठः

प॒र्जन्यः॑ । पि॒ता । म॒हि॒षस्य॑ । प॒र्णिनः॑ । नाभा॑ । पृ॒थि॒व्याः । गि॒रिषु॑ । क्षय॑म् । द॒धे॒ ।
स्वसा॑रः । आपः॑ । अ॒भि । गाः । उ॒त । अ॒स॒र॒न् । सम् । ग्राव॑ऽभिः । न॒स॒ते॒ । वी॒ते । अ॒ध्व॒रे ॥

सायणभाष्यम्

यस्य महिषस्य महतः पर्णिनः पर्णवतः पतनवतोवा सोमस्य पर्जन्यः पिता जनकः ससोमः पृथिव्या नाभा नाभौ नाभिस्थानीये हविर्धानीये गिरिषु गिरिसंबन्धिग्रावसु क्षयं निवासं दधे धारयत्यभिषवसमये । उतापि स्वसारोंगुलय आपोवसतीवर्योगाः आशिरार्थाः स्रुतयोवाअभ्यसरन् अभिसरन्ति संनसते संगच्छतेच ग्रावभिः साकम् । कुत्र वीते कान्ते अध्वरे यज्ञे ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः