मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८२, ऋक् ५

संहिता

यथा॒ पूर्वे॑भ्यः शत॒सा अमृ॑ध्रः सहस्र॒साः प॒र्यया॒ वाज॑मिन्दो ।
ए॒वा प॑वस्व सुवि॒ताय॒ नव्य॑से॒ तव॑ व्र॒तमन्वापः॑ सचन्ते ॥

पदपाठः

यथा॑ । पूर्वे॑भ्यः । श॒त॒ऽसाः । अमृ॑ध्रः । स॒ह॒स्र॒ऽसाः । प॒रि॒ऽअयाः॑ । वाज॑म् । इ॒न्दो॒ इति॑ ।
ए॒व । प॒व॒स्व॒ । सु॒वि॒ताय॑ । नव्य॑से । तव॑ । व्र॒तम् । अनु॑ । आपः॑ । स॒च॒न्ते॒ ॥

सायणभाष्यम्

हे इन्दोसोम यथापूर्वेभ्योमहर्षिभ्यः स्तोतृभ्यः शतसाः शतसंख्याकस्यधनस्यदाता अमृध्रः अभवः तथा सहस्रसाश्च वाजमन्नं तस्यदाताचसन् पर्ययाः परिगच्छेः एवमेव- मिदानीमपि नव्यसे नवतराय सुवितायाभ्युदयाय पवस्व क्षर । तव व्रतंकर्म अन्वापो- वसतीवर्यः सचन्ते अतः पवस्व ॥ ५ ॥

पवित्रंतइति पंचर्चंषोडशंसूक्तं आंगिरसस्य पवित्रस्यार्षं जागतं पवमानसोमदेवताकं तथाचानुक्रान्तं—पवित्रंतेपवित्रइति । अभिष्टवे आद्येऋचौवक्तव्ये । सूत्रितंच—पवित्रंतेविततं- ब्रह्मणस्पतइतिद्वे वियत्पवित्रंधिषणाअतन्वतेति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः