मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८३, ऋक् १

संहिता

प॒वित्रं॑ ते॒ वित॑तं ब्रह्मणस्पते प्र॒भुर्गात्रा॑णि॒ पर्ये॑षि वि॒श्वतः॑ ।
अत॑प्ततनू॒र्न तदा॒मो अ॑श्नुते शृ॒तास॒ इद्वह॑न्त॒स्तत्समा॑शत ॥

पदपाठः

प॒वित्र॑म् । ते॒ । विऽत॑तम् । ब्र॒ह्म॒णः॒ । प॒ते॒ । प्र॒ऽभुः । गात्रा॑णि । परि॑ । ए॒षि॒ । वि॒श्वतः॑ ।
अत॑प्तऽतनूः । न । तत् । आ॒मः । अ॒श्नु॒ते॒ । शृ॒तासः॑ । इत् । वह॑न्तः । तत् । सम् । आ॒श॒त॒ ॥

सायणभाष्यम्

हे ब्रह्मणस्पते मंत्रस्यस्वामिन् सोम ते पवित्रं शोधकं अंगं विततं सर्वत्र विस्तृतं सप्रभुः प्रभविता त्वं गात्राणि पातुरंगानि पर्येषि परिगच्छसि । विश्वतः सर्वतः तव तत्प- वित्रं अतप्ततनूः पयोव्रतादिना असंतप्तगात्रः आमः अपरिपक्वोनाश्नुते नव्याप्नोति । शृता- सइत् श्रृताएव परिपक्वाएव वहन्तोयागं निर्वहन्तः तत्पवित्रं समाशत व्याप्नुवन्ति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः