मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८३, ऋक् २

संहिता

तपो॑ष्प॒वित्रं॒ वित॑तं दि॒वस्प॒दे शोच॑न्तो अस्य॒ तन्त॑वो॒ व्य॑स्थिरन् ।
अव॑न्त्यस्य पवी॒तार॑मा॒शवो॑ दि॒वस्पृ॒ष्ठमधि॑ तिष्ठन्ति॒ चेत॑सा ॥

पदपाठः

तपोः॑ । प॒वित्र॑म् । विऽत॑तम् । दि॒वः । प॒दे । शोच॑न्तः । अ॒स्य॒ । तन्त॑वः । वि । अ॒स्थि॒र॒न् ।
अव॑न्ति । अ॒स्य॒ । प॒वि॒तार॑म् । आ॒शवः॑ । दि॒वः । पृ॒ष्ठम् । अधि॑ । ति॒ष्ठ॒न्ति॒ । चेत॑सा ॥

सायणभाष्यम्

तपोः शत्रूणांतापकस्य सोमस्य पवित्रं शोधकमंगं तेजोवादिवस्पदे द्युलोकस्योच्छ्रिते स्थाने वितते विस्तृतम् । तृतीयस्यामितोदिविसोमआसीदितिब्राह्मणम् । अस्यतन्तवोंशवः शोच- न्तोदीप्यमाना व्यस्थिन् विविधं तिष्ठन्ति पृथिव्यां हविर्धानेवा अस्यसोमस्यआशवः शीघ्र- गामिनोरसा अवन्ति रक्षन्ति । कं पवितारं पवायितारं यजमानमवन्ति रक्षन्ति होमद्वा- रा । पश्चात् हुताः दिवोद्युलोकस्यपृष्ठं पृष्ठभागमुन्नतदेशं चेतसाबुध्यादेवगमनेच्छावत्या अधितिष्ठन्ति आश्रयन्ते ॥ २ ॥ अभिष्टवे अरूरुचदित्येषा आवपनीया । सूत्रितंच—ईळेद्यावापृथिवीइति प्रागुत्तमाया- अरूरुचदुषसः पृश्निरग्रियइत्यावपेतेति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः