मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८३, ऋक् ४

संहिता

ग॒न्ध॒र्व इ॒त्था प॒दम॑स्य रक्षति॒ पाति॑ दे॒वानां॒ जनि॑मा॒न्यद्भु॑तः ।
गृ॒भ्णाति॑ रि॒पुं नि॒धया॑ नि॒धाप॑तिः सु॒कृत्त॑मा॒ मधु॑नो भ॒क्षमा॑शत ॥

पदपाठः

ग॒न्ध॒र्वः । इ॒त्था । प॒दम् । अ॒स्य॒ । र॒क्ष॒ति॒ । पाति॑ । दे॒वाना॑म् । जनि॑मानि । अद्भु॑तः ।
गृ॒भ्णाति॑ । रि॒पुम् । नि॒ऽधया॑ । नि॒धाऽप॑तिः । सु॒कृत्ऽत॑माः । मधु॑नः । भ॒क्षम् । आ॒श॒त॒ ॥

सायणभाष्यम्

गंधर्वः उदकानांस्तुतीनांवाधारक आदित्यः अस्य सोमस्यपदं स्थानं द्युसंबन्धिनं इ- त्थासत्यं रक्षति । सोयंसोमोदेवानां जनिमानि जन्मानि देवानित्यर्थः पातिरक्षति । अद्भु- तोमहान् । किंचायंरिपुं अस्मद्वैरिणं निधया निधा पाश्या पाशसमूहेन गृभ्णाति गृह्णाति निधापतिः पशुसमूहस्वामी तस्यास्यमधुनः मधुररसस्यभक्षं सुकृत्तमाः अतिशयेनसुकृत- कर्तारः एवआशत प्राप्नुवन्ति ॥ ४ ॥ अन्तिमेप्रवर्ग्ये परिधानीयायाः पूर्वं हविर्हविष्मइत्येषावपनीया । सूत्रितंच—उत्तमेप्रागुत्त- मायाहविर्हविष्मोमहिसद्मदैव्य मित्यावपेतेति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः