मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८३, ऋक् ५

संहिता

ह॒विर्ह॑विष्मो॒ महि॒ सद्म॒ दैव्यं॒ नभो॒ वसा॑न॒ः परि॑ यास्यध्व॒रम् ।
राजा॑ प॒वित्र॑रथो॒ वाज॒मारु॑हः स॒हस्र॑भृष्टिर्जयसि॒ श्रवो॑ बृ॒हत् ॥

पदपाठः

ह॒विः । ह॒वि॒ष्मः॒ । महि॑ । सद्म॑ । दैव्य॑म् । नभः॑ । वसा॑नः । परि॑ । या॒सि॒ । अ॒ध्व॒रम् ।
राजा॑ । प॒वित्र॑ऽरथः । वाज॑म् । आ । अ॒रु॒हः॒ । स॒हस्र॑ऽभृष्टिः । ज॒य॒सि॒ । श्रवः॑ । बृ॒हत् ॥

सायणभाष्यम्

हे हविष्मः हविरित्युदकनाम उदकवन् सोम हविर्भूतं नभ उदकनामैतत् उदकरसमि- त्यर्थः वसानः आच्छादयन् महि महत् दैव्यंसद्म यागगृहं परियासि परिगच्छस्यध्वरंनि- वोढुम् । किंच हे सोम राजा पवित्ररथश्च वाजं संग्रामं आरुहः आरोहसि यद्वा तत्रतत्र सं- ग्रामवाचकेनशब्देन यज्ञव्यवहारदर्शनादत्र वाजोयज्ञाख्यसंग्रामः तमारुहः यथाकश्चिद्राजा रथमारुह्य स्वस्थानंप्रतिशति तद्वदितिभावः । किंच सहस्रभृष्टिः बहुभ्रंशः अपरिमितगमन इत्यर्थः । अथवा भृष्ठिरायुधं असंख्यातायुधःसन् बृहत् श्रवः महदन्नं जयसि अस्माकं ॥ ५ ॥

पवस्वदेवमादनइति पंचर्चंसप्तदशंसूक्तं वाचापुत्रस्य प्रजापतेरार्षं जागतं पवमानसोम- देवताकम् । तथाचानुक्रान्तं—पवस्ववाच्यः प्रजापतिरिति । गतोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः