मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८४, ऋक् २

संहिता

आ यस्त॒स्थौ भुव॑ना॒न्यम॑र्त्यो॒ विश्वा॑नि॒ सोम॒ः परि॒ तान्य॑र्षति ।
कृ॒ण्वन्त्सं॒चृतं॑ वि॒चृत॑म॒भिष्ट॑य॒ इन्दु॑ः सिषक्त्यु॒षसं॒ न सूर्य॑ः ॥

पदपाठः

आ । यः । त॒स्थौ । भुव॑नानि । अम॑र्त्यः । विश्वा॑नि । सोमः॑ । परि॑ । तानि॑ । अ॒र्ष॒ति॒ ।
कृ॒ण्वन् । स॒म्ऽचृत॑म् । वि॒ऽचृत॑म् । अ॒भिष्ट॑ये । इन्दुः॑ । सि॒स॒क्ति॒ । उ॒षस॑म् । न । सूर्यः॑ ॥

सायणभाष्यम्

यः अमर्त्योदेवः सोमोभुवनानि लोकानातस्थौ आस्थितवान् तानि विश्वानि सर्वाणि भुवनानि पर्यर्षति परितोगच्छति परितोरक्षतीत्यर्थः । सोयमिंदुः यज्ञं यजमानंवा संवृतं देवैःफलैर्वा संबद्धं कृण्वन् कुर्वन् विचृतं असुरादिभिः दुःखैर्वाविमुक्तं कृण्वन् अभितोया- गाय सिषक्ति सेवते यज्ञम् । उषसंनसूर्यः सूर्यउषसमिव । यथा । अभिष्टये अभितोगमनाय प्राणिनां संचृतं प्रकाशैः संयुक्तं विचृतं तमोभिर्विमुक्तंच लोकंकुर्वन्नुषसं सेवते तद्वत् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः