मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८४, ऋक् ३

संहिता

आ यो गोभि॑ः सृ॒ज्यत॒ ओष॑धी॒ष्वा दे॒वानां॑ सु॒म्न इ॒षय॒न्नुपा॑वसुः ।
आ वि॒द्युता॑ पवते॒ धार॑या सु॒त इन्द्रं॒ सोमो॑ मा॒दय॒न्दैव्यं॒ जन॑म् ॥

पदपाठः

आ । यः । गोभिः॑ । सृ॒ज्यते॑ । ओष॑धीषु । आ । दे॒वाना॑म् । सु॒म्ने । इ॒षय॑न् । उप॑ऽवसुः ।
आ । वि॒ऽद्युता॑ । प॒व॒ते॒ । धार॑या । सु॒तः । इन्द्र॑म् । सोमः॑ । मा॒दय॑न् । दैव्य॑म् । जन॑म् ॥

सायणभाष्यम्

यः सोमोगोभिः रश्मिभिः आसृज्यते ओषधीषु यंसोमं स्थापयन्तीत्यर्थः । किमर्थं देवानां सुम्ने सुखे निमित्तेसति कीदृशोयः इषयन् देवान् प्राप्तुमिच्छन् इषगतौ । धन- मिच्छन्वा तथा उपावसुः शत्रुभ्यः सकाशात्प्राप्तधनः ससोमो विद्युता विद्योतमानया धारया आपवते सुतःसन् । किंकुर्वन् दैव्यं देवस्वामिनं इन्द्रं जनं देवसंबंधिसंघं माद- यन् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः