मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८४, ऋक् ४

संहिता

ए॒ष स्य सोमः॑ पवते सहस्र॒जिद्धि॑न्वा॒नो वाच॑मिषि॒रामु॑ष॒र्बुध॑म् ।
इन्दु॑ः समु॒द्रमुदि॑यर्ति वा॒युभि॒रेन्द्र॑स्य॒ हार्दि॑ क॒लशे॑षु सीदति ॥

पदपाठः

ए॒षः । स्यः । सोमः॑ । प॒व॒ते॒ । स॒ह॒स्र॒ऽजित् । हि॒न्वा॒नः । वाच॑म् । इ॒षि॒राम् । उ॒षः॒ऽबुध॑म् ।
इन्दुः॑ । स॒मु॒द्रम् । उत् । इ॒य॒र्ति॒ । वा॒युऽभिः॑ । आ । इन्द्र॑स्य । हार्दि॑ । क॒लशे॑षु । सी॒द॒ति॒ ॥

सायणभाष्यम्

एषः स्यः सः सोमः पवते पूयते । कीदृशएषः सहस्रजित् सहस्रजेता किंकुर्वन् वाचं ऋत्विजां स्तुतिरूपांवाचं हिन्वानः प्रेरयन् कीदृशींवाचं इषिरां गमनशीलां स्तुत्यंप्रतिगं- त्रीं उषर्बुधं उषसिप्रबुद्धं सोयमिन्दुः सोमः समुद्रं समुद्रियंरसं उदियर्ति उद्गमयति । वायुभीर्गंतृभिरध्वर्य्वादिभिः वायुरेववाप्रेर्यमाणः सन् तथेन्द्रस्यहार्दि हार्दं प्रियं तद्धार्दी- न्द्रस्य प्रियवद्यथाभवति तथा कलशेषु द्रोणकलशप्रभृतिष्वासीदति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः