मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८५, ऋक् १

संहिता

इन्द्रा॑य सोम॒ सुषु॑त॒ः परि॑ स्र॒वापामी॑वा भवतु॒ रक्ष॑सा स॒ह ।
मा ते॒ रस॑स्य मत्सत द्वया॒विनो॒ द्रवि॑णस्वन्त इ॒ह स॒न्त्विन्द॑वः ॥

पदपाठः

इन्द्रा॑य । सो॒म॒ । सुऽसु॑तः । परि॑ । स्र॒व॒ । अप॑ । अमी॑वा । भ॒व॒तु॒ । रक्ष॑सा । स॒ह ।
मा । ते॒ । रस॑स्य । म॒त्स॒त॒ । द्व॒या॒विनः॑ । द्रवि॑णस्वन्तः । इ॒ह । स॒न्तु॒ । इन्द॑वः ॥

सायणभाष्यम्

हे सोम त्वं सुषुतः सुष्ठु अभिषुतःसन् इन्द्राय इन्द्रार्थं परिस्रव परितः स्रव गच्छ रसंमुंच । अमीवारोगः रक्षसासह अपभवतु अपगतोवियुक्तोभवतु ते तव रसस्य स्वां- शंरसंपीत्वा मामत्सत मामाद्यन्तु के द्वयाविनः द्वयं सत्यानृतं तेनयुक्ताः पापिनइत्यर्थः किंच इन्दवस्तेरसाः इहास्मिन्यज्ञे द्वविणस्वन्तः धनवंतः सन्तु भवन्तु ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०