मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८५, ऋक् ४

संहिता

स॒हस्र॑णीथः श॒तधा॑रो॒ अद्भु॑त॒ इन्द्रा॒येन्दु॑ः पवते॒ काम्यं॒ मधु॑ ।
जय॒न्क्षेत्र॑म॒भ्य॑र्षा॒ जय॑न्न॒प उ॒रुं नो॑ गा॒तुं कृ॑णु सोम मीढ्वः ॥

पदपाठः

स॒हस्र॑ऽनीथः । श॒तऽधा॑रः । अद्भु॑तः । इन्द्रा॑य । इन्दुः॑ । प॒व॒ते॒ । काम्य॑म् । मधु॑ ।
जय॑न् । क्षेत्र॑म् । अ॒भि । अ॒र्ष॒ । जय॑न् । अ॒पः । उ॒रुम् । नः॒ । गा॒तुम् । कृ॒णु॒ । सो॒म॒ । मी॒ढ्वः॒ ॥

सायणभाष्यम्

सहस्रनीथो बहुप्रकारनयनः शातधारः अपरिमितधारोपेतः अद्भुतः आश्चर्यकरोमहानि न्दुः इन्द्राय काम्यं मधुपवते । किंच क्षेत्रमस्मभ्यं जयन् अपश्चजयन् अभ्यर्ष अभिगच्छ- पवित्रम् । हेसोम मीढ्वः सेक्तः गातुं मार्गं नोस्माकं उरुंविस्तीर्णं कृणु कुरु ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०