मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८५, ऋक् ५

संहिता

कनि॑क्रदत्क॒लशे॒ गोभि॑रज्यसे॒ व्य१॒॑व्ययं॑ स॒मया॒ वार॑मर्षसि ।
म॒र्मृ॒ज्यमा॑नो॒ अत्यो॒ न सा॑न॒सिरिन्द्र॑स्य सोम ज॒ठरे॒ सम॑क्षरः ॥

पदपाठः

कनि॑क्रदत् । क॒लशे॑ । गोभिः॑ । अ॒ज्य॒से॒ । वि । अ॒व्यय॑म् । स॒मया॑ । वार॑म् । अ॒र्ष॒सि॒ ।
म॒र्मृ॒ज्यमा॑नः । अत्यः॑ । न । सा॒न॒सिः । इन्द्र॑स्य । सो॒म॒ । ज॒ठरे॑ । सम् । अ॒क्ष॒रः॒ ॥

सायणभाष्यम्

हेसोम कनिक्रदत् शब्दंकुर्वन् कलशॆवर्तमानो गोभिः पयोभिः अज्यसे सिक्तोभवसि । अव्ययं अविमयं वारं वालं दशापवित्रं समया तत्समीपे व्यर्षसि विविधंगच्छसि मर्मृ- ज्यमानः शोध्यमानः अत्योन अश्वइव सानसिः संभजनशीलस्त्वं हेसोम इन्द्रस्यजठरे समक्षरः सम्यक् क्षरसि ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०