मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८५, ऋक् ६

संहिता

स्वा॒दुः प॑वस्व दि॒व्याय॒ जन्म॑ने स्वा॒दुरिन्द्रा॑य सु॒हवी॑तुनाम्ने ।
स्वा॒दुर्मि॒त्राय॒ वरु॑णाय वा॒यवे॒ बृह॒स्पत॑ये॒ मधु॑माँ॒ अदा॑भ्यः ॥

पदपाठः

स्वा॒दुः । प॒व॒स्व॒ । दि॒व्याय॑ । जन्म॑ने । स्वा॒दुः । इन्द्रा॑य । सु॒हवी॑तुऽनाम्ने ।
स्वा॒दुः । मि॒त्राय॑ । वरु॑णाय । वा॒यवे॑ । बृह॒स्पत॑ये । मधु॑ऽमान् । अदा॑भ्यः ॥

सायणभाष्यम्

हेसोम स्वादुस्त्वं दिव्याय जन्मने देवगणाय पवस्व तथा सुहवीतुनाम्ने शोभनाह्वा- ननामधेयायेन्द्रायत्वंपवस्व मित्राय वरुणाय वायवे बृहस्पतयेच पवस्व मधुमान् मधुर- रसः अदाभ्यः अन्यैरहिंस्यस्त्वं ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११