मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८५, ऋक् ७

संहिता

अत्यं॑ मृजन्ति क॒लशे॒ दश॒ क्षिप॒ः प्र विप्रा॑णां म॒तयो॒ वाच॑ ईरते ।
पव॑माना अ॒भ्य॑र्षन्ति सुष्टु॒तिमेन्द्रं॑ विशन्ति मदि॒रास॒ इन्द॑वः ॥

पदपाठः

अत्य॑म् । मृ॒ज॒न्ति॒ । क॒लशे॑ । दश॑ । क्षिपः॑ । प्र । विप्रा॑णाम् । म॒तयः॑ । वाचः॑ । ई॒र॒ते॒ ।
पव॑मानाः । अ॒भि । अ॒र्ष॒न्ति॒ । सु॒ऽस्तु॒तिम् । आ । इन्द्र॑म् । वि॒श॒न्ति॒ । म॒दि॒रासः॑ । इन्द॑वः ॥

सायणभाष्यम्

अत्यमतनवन्तमश्वस्थानीयंवा सोमं कलशे दशक्षिपोदशांगुलयः अध्वर्युसंबन्धिन्योमृ- जन्ति शोधयन्ति । तथा विप्राणांमध्ये मतयः स्तोतारोवाचः स्तुतीरीरते प्रेरयन्ति । पव- मानाः सोमाः अभ्यर्षन्ति । अभिगच्छन्ति । सुष्टुतिं शोभनस्तुतिं इन्द्रं मदिरासोमदकराइन्द वः सोमाः आविशंति प्रविशन्ति ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११