मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८५, ऋक् ८

संहिता

पव॑मानो अ॒भ्य॑र्षा सु॒वीर्य॑मु॒र्वीं गव्यू॑तिं॒ महि॒ शर्म॑ स॒प्रथः॑ ।
माकि॑र्नो अ॒स्य परि॑षूतिरीश॒तेन्दो॒ जये॑म॒ त्वया॒ धनं॑धनम् ॥

पदपाठः

पव॑मानः । अ॒भि । अ॒र्ष॒ । सु॒ऽवीर्य॑म् । उ॒र्वीम् । गव्यू॑तिम् । महि॑ । शर्म॑ । स॒ऽप्रथः॑ ।
माकिः॑ । नः॒ । अ॒स्य । परि॑ऽसूतिः । ई॒श॒त॒ । इन्दो॒ इति॑ । जये॑म । त्वया॑ । धन॑म्ऽधनम् ॥

सायणभाष्यम्

हे सोम पवमानः पूयमानस्त्वं सुवीर्यं उर्वीं महतीं गव्यूतिं गोमार्गंच महि महत् सप्रथः सर्वतः पृथु शर्म गृहं सुखंवा अभ्यर्ष अभिगमय नोस्माकमस्यकर्मणः परिषूतिः हिंसायाः परिप्रेरकोद्वेषी माकिरीशत मैश्वरोभवतु हेइन्दो सोम त्वया साधनेन धनंधनं सर्वमपिधनं जयेम ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११