मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८५, ऋक् ११

संहिता

नाके॑ सुप॒र्णमु॑पपप्ति॒वांसं॒ गिरो॑ वे॒नाना॑मकृपन्त पू॒र्वीः ।
शिशुं॑ रिहन्ति म॒तय॒ः पनि॑प्नतं हिर॒ण्ययं॑ शकु॒नं क्षाम॑णि॒ स्थाम् ॥

पदपाठः

नाके॑ । सु॒ऽप॒र्णम् । उ॒प॒प॒प्ति॒ऽवांस॑म् । गिरः॑ । वे॒नाना॑म् । अ॒कृ॒प॒न्त॒ । पू॒र्वीः ।
शिशु॑म् । रि॒ह॒न्ति॒ । म॒तयः॑ । पनि॑प्नतम् । हि॒र॒ण्यय॑म् । श॒कु॒नम् । क्षाम॑णि । स्था॒म् ॥

सायणभाष्यम्

नाके द्युलोके वर्तमानं सुपर्णं शोभनपर्णोपेतं पश्चात् उपपप्तिवांसं उपपतयन्तंसोमं वे- नानां स्तोतॄणामस्माकं संबन्धिन्यः पूर्वीर्बद्भ्योगिरः स्तुतयः उपाकृपन्त उपकल्पन्ते अभि- ष्टुवन्तीत्यर्थः । तं शिशुं शिशुवत्संस्कर्तव्यंसोमं मतयः स्तुतयः रिहन्ति लिहन्ति । संस्पृ- शन्ति प्राप्नुवन्तीत्यर्थः । कीदृशं शिशुं पनिमतं शब्दायन्तं पनतेर्यङ्लुगन्तात् शतरि अभ्यासस्यनिगागमउपधालोपश्च । हिरण्ययं हिरण्मयं शकुनं पक्षिणं क्षामणि क्षमायां स्थां हविर्धानेरथां वर्तमानं ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११