मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८५, ऋक् १२

संहिता

ऊ॒र्ध्वो ग॑न्ध॒र्वो अधि॒ नाके॑ अस्था॒द्विश्वा॑ रू॒पा प्र॑ति॒चक्षा॑णो अस्य ।
भा॒नुः शु॒क्रेण॑ शो॒चिषा॒ व्य॑द्यौ॒त्प्रारू॑रुच॒द्रोद॑सी मा॒तरा॒ शुचि॑ः ॥

पदपाठः

ऊ॒र्ध्वः । ग॒न्ध॒र्वः । अधि॑ । नाके॑ । अ॒स्था॒त् । विश्वा॑ । रू॒पा । प्र॒ति॒ऽचक्षा॑णः । अ॒स्य॒ ।
भा॒नुः । शु॒क्रेण॑ । शो॒चिषा॑ । वि । अ॒द्यौ॒त् । प्र । अ॒रू॒रु॒च॒त् । रोद॑सी॒ इति॑ । मा॒तरा॑ । शुचिः॑ ॥

सायणभाष्यम्

ऊर्ध्वउन्नतोगंधर्वोरश्मीनांधारकः सोमोनाके आदित्ये अध्य् स्थात् अधितिष्ठति किंकुर्व- न् अस्यादित्यस्य विश्वा विश्वानि रूपा रूपाणि प्रतिचक्षणः प्रतिश्यन् भानुरादित्यः सोमाधिष्ठितः सन् शुक्रेण दीप्तेन शोचिषा तेजसा व्यद्यौत् विद्योतते नकेवलंस्वयमेव अपितु मातरानिर्मात्र्यौ रोदसी द्यावापृथिव्यौ प्रारूरुचत् प्ररोचयति शुचिर्दीप्तः सूर्यः ॥ १२ ॥

अथपंचमेचानुवाके एकादशसूक्तानि तत्र प्रतइत्यष्टाचत्वारिंशदृचं प्रथमंसूक्तम् । प्रथम- दशर्चस्य आकृष्टाइतिमाषाइतिच द्विनामानऋषिगणाद्रष्टारः । द्वितीयस्यदशर्चस्य सिकता- इति निवावरीइति द्विनामानऋषिगणाद्रष्टारः । द्वितीयस्यदशर्चस्य सिकताइति निवावरी- इति द्विनामानऋषिगणाः । तृतीयस्यदशर्चस्य पृश्नयइतिअजाइतिचनामद्वयोपेताऋषिगणाः । अदृष्टार्थमेषांद्विनामत्वमवगंतव्यम् । चतुर्थस्यदशर्चस्य आकृष्टामाषाइत्यादिद्विनामानस्त्रयोग- णाःद्रष्टारः । आत्रेयइतिनामानमुनयोगणद्रष्टारः । एवंचत्वारिंशाद्वताः अथपंचानांभौमो- त्रिरृषिः ततस्तिसृणांगृत्समदः । जगतीछन्दः पवमानसोमोदेवता । तथाचानुक्रान्तं—प्रतेष्टा- चत्वारिंशदृषिगणादशर्चा आकृष्टामाशाःप्रथमे सिकतानिवावरीद्वितिये पृश्नयोऽजास्तृतीये त्रयश्चतुर्थेत्रिः पंचान्त्यास्तिस्रोगृत्र्समदइति । गतोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११