मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८६, ऋक् १

संहिता

प्र त॑ आ॒शवः॑ पवमान धी॒जवो॒ मदा॑ अर्षन्ति रघु॒जा इ॑व॒ त्मना॑ ।
दि॒व्याः सु॑प॒र्णा मधु॑मन्त॒ इन्द॑वो म॒दिन्त॑मास॒ः परि॒ कोश॑मासते ॥

पदपाठः

प्र । ते॒ । आ॒शवः॑ । प॒व॒मा॒न॒ । धी॒ऽजवः॑ । मदाः॑ । अ॒र्ष॒न्ति॒ । र॒घु॒जाःऽइ॑व । त्मना॑ ।
दि॒व्याः । सु॒ऽप॒र्णाः । मधु॑ऽमन्तः । इन्द॑वः । म॒दिन्ऽत॑मासः । परि॑ । कोश॑म् । आ॒स॒ते॒ ॥

सायणभाष्यम्

हे पवमान पूयमान सोम ते ता आशवोव्याप्ताः धीजवोमनोवेगामदाः मदकरारसाः अर्षन्ति गच्छन्ति त्मना आत्मनैव अनायासेनइत्यर्थः । कइव रघुजाइव रघुःशीघ्रगावडवा तत्रजाता रघुजास्तेइव निर्गतास्तेदित्र्याः दिविभवाः अन्तरिक्षे दशापवित्रे धार्यमाणाइत्य- र्थः । सुपर्णाः सुपतनाः मधुमन्तोमाधुर्योपेताः मदिन्तमासः अतिशयेनमादयितृतमाः इन्द- वोदीप्तारसाः कोशंद्रोणकलशं पर्यासते पर्युपविशंति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२