मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८६, ऋक् २

संहिता

प्र ते॒ मदा॑सो मदि॒रास॑ आ॒शवोऽसृ॑क्षत॒ रथ्या॑सो॒ यथा॒ पृथ॑क् ।
धे॒नुर्न व॒त्सं पय॑सा॒भि व॒ज्रिण॒मिन्द्र॒मिन्द॑वो॒ मधु॑मन्त ऊ॒र्मयः॑ ॥

पदपाठः

प्र । ते॒ । मदा॑सः । म॒दि॒रासः॑ । आ॒शवः॑ । असृ॑क्षत । रथ्या॑सः । यथा॑ । पृथ॑क् ।
धे॒नुः । न । व॒त्सम् । पय॑सा । अ॒भि । व॒ज्रिण॑म् । इन्द्र॑म् । इन्द॑वः । मधु॑ऽमन्तः । ऊ॒र्मयः॑ ॥

सायणभाष्यम्

प्रासृक्षत प्रसृज्यन्ते ते तव मदिरासोमदकरा आशवोव्याप्ता मदासः सोमरसाः । कइव रथ्यासोरथ्याअश्वास्तेयथा तथापृथक् प्रसृज्यन्ते तेमधुमन्तोमाधुर्योपेताऊर्मयः प्रवृद्धरसाः इन्दवाः सोमाः धेनुः पयसा वत्समिव स्वरसेन वज्रिणमिन्द्रमभिगच्छन्ति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२