मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८६, ऋक् ४

संहिता

प्र त॒ आश्वि॑नीः पवमान धी॒जुवो॑ दि॒व्या अ॑सृग्र॒न्पय॑सा॒ धरी॑मणि ।
प्रान्तरृष॑य॒ः स्थावि॑रीरसृक्षत॒ ये त्वा॑ मृ॒जन्त्यृ॑षिषाण वे॒धसः॑ ॥

पदपाठः

प्र । ते॒ । आश्वि॑नीः । प॒व॒मा॒न॒ । धी॒ऽजुवः॑ । दि॒व्याः । अ॒सृ॒ग्र॒न् । पय॑सा । धरी॑मणि ।
प्र । अ॒न्तः । ऋष॑यः । स्थावि॑रीः । अ॒सृ॒क्ष॒त॒ । ये । त्वा॒ । मृ॒जन्ति॑ । ऋ॒षि॒ऽसा॒ण॒ । वे॒धसः॑ ॥

सायणभाष्यम्

हे पवमानसोम ते तव आश्विनीः व्याप्ताः अशूव्याप्तावित्यस्मादौणादिकोविनिः । ततः अण् व्यत्ययेनाद्युदात्तः धीजुवोमनोवेगाः दैव्याःदिविभवाः दिवःपतंत्योधाराः पयसायुक्ताः धरीमणि धारके द्रोणकलशे प्रासृग्रन् गच्छन्ति येवेधसः विधातारः ऋषयः हेसोम ऋषि षाण ऋषिभिःसंभक्त त्वा त्वां मृजन्ति अभिषुण्वन्ति ते ऋषयः । स्थाविरीः स्थविराधा- राः अन्तर्मध्ये पात्रस्थान्तः प्रासृक्षत प्रसृजन्ति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२