मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८६, ऋक् ५

संहिता

विश्वा॒ धामा॑नि विश्वचक्ष॒ ऋभ्व॑सः प्र॒भोस्ते॑ स॒तः परि॑ यन्ति के॒तवः॑ ।
व्या॒न॒शिः प॑वसे सोम॒ धर्म॑भि॒ः पति॒र्विश्व॑स्य॒ भुव॑नस्य राजसि ॥

पदपाठः

विश्वा॑ । धामा॑नि । वि॒श्व॒ऽच॒क्षः॒ । ऋभ्व॑सः । प्र॒ऽभोः । ते॒ । स॒तः । परि॑ । य॒न्ति॒ । के॒तवः॑ ।
वि॒ऽआ॒न॒शिः । प॒व॒से॒ । सो॒म॒ । धर्म॑ऽभिः । पतिः॑ । विश्व॑स्य । भुव॑नस्य । रा॒ज॒सि॒ ॥

सायणभाष्यम्

हे विश्वचक्षः सर्वस्यद्रष्टः सोम प्रभोः परिवृढस्य सतस्ते तव ऋभ्वसः ऋभ्वाइति महन्नाम महान्तः केतवोरश्मयोविश्वा सर्वाणि धामानि तेजः स्थानानि देवशरीराणि परियन्ति परिगच्छन्ति प्रकाशयन्तीत्यर्थः । हे सोम व्यानशिः व्यापनशीलक्षत्वं धर्म- भिर्धारकैः रसनिष्पंदैः पवसे पूयसे । विश्वस्य भुवनस्यचपतिः स्वामी त्वं राजसि ईश्वरोभवसि ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२