मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८६, ऋक् ६

संहिता

उ॒भ॒यत॒ः पव॑मानस्य र॒श्मयो॑ ध्रु॒वस्य॑ स॒तः परि॑ यन्ति के॒तवः॑ ।
यदी॑ प॒वित्रे॒ अधि॑ मृ॒ज्यते॒ हरि॒ः सत्ता॒ नि योना॑ क॒लशे॑षु सीदति ॥

पदपाठः

उ॒भ॒यतः॑ । पव॑मानस्य । र॒श्मयः॑ । ध्रु॒वस्य॑ । स॒तः । परि॑ । य॒न्ति॒ । के॒तवः॑ ।
यदि॑ । प॒वित्रे॑ । अधि॑ । मृ॒ज्यते॑ । हरिः॑ । सत्ता॑ । नि । योना॑ । क॒लशे॑षु । सी॒द॒ति॒ ॥

सायणभाष्यम्

पवमानस्य पूयमानस्य ध्रुवस्य स्वयमविचलितस्य सतः विद्यमानस्य सोमस्य केतवः प्रज्ञापका रश्मयः उभयत इतश्चामुतश्च परियन्ति परिगच्छन्ति अभिषवसमयएवंभवति । यदि यदा पवित्रे दशापवित्रे हरिर्हरितवर्णोयं अधिमृज्यते तदानीं सत्ता सदनशीलोयं योना योनौ स्वीयेस्थाने कलशेषु द्रोणकलशादिषु निषीदति ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३