मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८६, ऋक् १०

संहिता

ज्योति॑र्य॒ज्ञस्य॑ पवते॒ मधु॑ प्रि॒यं पि॒ता दे॒वानां॑ जनि॒ता वि॒भूव॑सुः ।
दधा॑ति॒ रत्नं॑ स्व॒धयो॑रपी॒च्यं॑ म॒दिन्त॑मो मत्स॒र इ॑न्द्रि॒यो रसः॑ ॥

पदपाठः

ज्योतिः॑ । य॒ज्ञस्य॑ । प॒व॒ते॒ । मधु॑ । प्रि॒यम् । पि॒ता । दे॒वाना॑म् । ज॒नि॒ता । वि॒भुऽव॑सुः ।
दधा॑ति । रत्न॑म् । स्व॒धयोः॑ । अ॒पी॒च्य॑म् । म॒दिन्ऽत॑मः । म॒त्स॒रः । इ॒न्द्रि॒यः । रसः॑ ॥

सायणभाष्यम्

यज्ञस्यज्योतिः प्रकाशकः सोमः प्रियंदेवानां मधु मधुरं रसंपवते क्षरति । यद्वा ज्यो- तिर्यज्ञस्येत्येतदपि मधुविशेषणम् । तथा सत्युक्तलक्षणंमधु पवते पूयतइत्यर्थः । सोमरसो- विशेष्यते पिता रक्षिता देवानाम् । उत्पादयिता सर्वस्य । विभुवसुः प्रभूतधनः ईदृशः सस्व धयोर्द्यावापृथिव्योः । स्वधे पुरंधी इति द्यावापृथिवीनामसुपठितः । तयोरपीच्यमन्तर्हितं रत्नंमणीयंधनं दधाति स्थापयति स्तोतृषु । पुनः सएवविशेष्यते मदिन्तमः मादयितृतमः मत्सरः सोमःइन्द्रियः इन्द्रेण जुष्ट इन्द्रस्यवर्धकोवा रसोरसरूपः ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३