मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८६, ऋक् १४

संहिता

द्रा॒पिं वसा॑नो यज॒तो दि॑वि॒स्पृश॑मन्तरिक्ष॒प्रा भुव॑ने॒ष्वर्पि॑तः ।
स्व॑र्जज्ञा॒नो नभ॑सा॒भ्य॑क्रमीत्प्र॒त्नम॑स्य पि॒तर॒मा वि॑वासति ॥

पदपाठः

द्रा॒पिम् । वसा॑नः । य॒ज॒तः । दि॒वि॒ऽस्पृश॑म् । अ॒न्त॒रि॒क्ष॒ऽप्राः । भुव॑नेषु । अर्पि॑तः ।
स्वः॑ । ज॒ज्ञा॒नः । नभ॑सा । अ॒भि । अ॒क्र॒मी॒त् । प्र॒त्नम् । अ॒स्य॒ । पि॒तर॑म् । आ । वि॒वा॒स॒ति॒ ॥

सायणभाष्यम्

दिविस्पृशं दिवः स्प्रष्टारं द्रापिं कवचं तेजोरूपं वसानः आच्छादयन् यजतोयष्टव्योन्त रिक्षप्राः अंतरिक्षस्यपूरकः उदकेन तादृशः सोमोभुवनेषूदकेष्वर्पितः स्वः सर्वंस्वनयामिन- व्यं देवसंघं स्वर्गंवा जज्ञानः जनयन् अथवा स्वरुदकं तज्जनयन् नभसा उदकेन अभ्य- क्रमीत् अभिक्रामति अस्योदकस्य पितरं पालकं प्रत्नं पुराणं इन्द्रं आविवासति परिचरति ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४