मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८६, ऋक् १५

संहिता

सो अ॑स्य वि॒शे महि॒ शर्म॑ यच्छति॒ यो अ॑स्य॒ धाम॑ प्रथ॒मं व्या॑न॒शे ।
प॒दं यद॑स्य पर॒मे व्यो॑म॒न्यतो॒ विश्वा॑ अ॒भि सं या॑ति सं॒यतः॑ ॥

पदपाठः

सः । अ॒स्य॒ । वि॒शे । महि॑ । शर्म॑ । य॒च्छ॒ति॒ । यः । अ॒स्य॒ । धाम॑ । प्र॒थ॒मम् । वि॒ऽआ॒न॒शे ।
प॒दम् । यत् । अ॒स्य॒ । प॒र॒मे । विऽओ॑मनि । अतः॑ । विश्वाः॑ । अ॒भि । सम् । या॒ति॒ । स॒म्ऽयतः॑ ॥

सायणभाष्यम्

ससोमः अस्येन्द्रस्यविशे प्रवेशनाय महिमहत् शर्म सुखं यच्छति यःसोमोस्येन्द्रस्यप्राप्त तेजोयुक्तंशरीरं प्रथमं इतरदेवप्राप्तेः पूर्वं व्यानशे प्राप्तवान् यत् यस्यास्यसोमस्य प्रमेउत्कृ- ष्टे व्योमन् व्योमनि द्युलोके वेद्यांवा पदंस्थानं भवति यतोयस्मात् सोमात् तृप्तइन्द्रः सोमःस्वयं वा विश्वाः संयतः सर्वान् संग्रामान् अभिसंयाति सम्यगभिगच्छति ससोमो- महिशर्मयच्छतीतिसंबन्धः ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४