मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८६, ऋक् १६

संहिता

प्रो अ॑यासी॒दिन्दु॒रिन्द्र॑स्य निष्कृ॒तं सखा॒ सख्यु॒र्न प्र मि॑नाति सं॒गिर॑म् ।
मर्य॑ इव युव॒तिभि॒ः सम॑र्षति॒ सोमः॑ क॒लशे॑ श॒तया॑म्ना प॒था ॥

पदपाठः

प्रो इति॑ । अ॒या॒सी॒त् । इन्दुः॑ । इन्द्र॑स्य । निः॒ऽकृ॒तम् । सखा॑ । सख्युः॑ । न । प्र । मि॒ना॒ति॒ । स॒म्ऽगिर॑म् ।
मर्यः॑ऽइव । यु॒व॒तिऽभिः॑ । सम् । अ॒र्ष॒ति॒ । सोमः॑ । क॒लशे॑ । श॒तऽया॑म्ना । प॒था ॥

सायणभाष्यम्

इन्दुः सोमः इन्द्रस्यनिष्कृतं स्थानमुदरं प्रोअयासीत् प्रैवगच्छति गत्वाच सखा सखि- भूतः सोमः सख्युरिन्द्रस्य संगिरं सम्यग्गिरणाधारभूतं उदरं नप्रमिनाति नहिनस्ति । किंच मर्यइवयुवतिभिः मर्त्योयथा युवतिभिः सहसंगतोभवति तद्वदयमपि सोमोयुवतिभिर्मिश्रण- शी लाभिर्वसतीवरीभिरद्भिः सह समर्षति संगच्छते अभिषवकाले पश्चात्सोमः शतयाम्ना अनेकयामनसाधनच्छिद्रोपेतेन पथामार्गेण दशापवित्रसंबन्धिनि कलशे द्रोणकलशे गच्छती तिशॆषः । यद्वैकमेववाक्यम् । यथा मर्योयुवतिभिः सहसंगच्छते एवं कलशे शातयाम्ना- पथा संगच्छतेद्भिः ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५