मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८६, ऋक् १७

संहिता

प्र वो॒ धियो॑ मन्द्र॒युवो॑ विप॒न्युवः॑ पन॒स्युवः॑ सं॒वस॑नेष्वक्रमुः ।
सोमं॑ मनी॒षा अ॒भ्य॑नूषत॒ स्तुभो॒ऽभि धे॒नव॒ः पय॑सेमशिश्रयुः ॥

पदपाठः

प्र । वः॒ । धियः॑ । म॒न्द्र॒ऽयुवः॑ । वि॒प॒न्युवः॑ । प॒न॒स्युवः॑ । स॒म्ऽवस॑नेषु । अ॒क्र॒मुः॒ ।
सोम॑म् । म॒नी॒षाः । अ॒भि । अ॒नू॒ष॒त॒ । स्तुभः॑ । अ॒भि । धे॒नवः॑ । पय॑सा । ई॒म् । अ॒शि॒श्र॒युः॒ ॥

सायणभाष्यम्

हे सोम वोयुष्माकं धियोध्यातारः मन्द्रयुवः मदकरं शब्दं कामयमानाः पनस्युवः स्तुतिं कामयमानाः विपन्युवः स्तोतृनामैतत् स्तोतारः संवसनेषु संवासयोग्येषु यागगृहेषु प्राक्रमुः प्रक्रमन्ते । तदेवाह सोमं मनीषाः मनसईशाः ईश्वराः स्तोतारः अभ्यनूषत अभिष्टुवन्ति धेनवोपि पयसा स्वीयेन ईमेनंसोममभ्यशिश्नयुः अभिश्रीणन्ति ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५