मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८६, ऋक् १८

संहिता

आ नः॑ सोम सं॒यतं॑ पि॒प्युषी॒मिष॒मिन्दो॒ पव॑स्व॒ पव॑मानो अ॒स्रिध॑म् ।
या नो॒ दोह॑ते॒ त्रिरह॒न्नस॑श्चुषी क्षु॒मद्वाज॑व॒न्मधु॑मत्सु॒वीर्य॑म् ॥

पदपाठः

आ । नः॒ । सो॒म॒ । स॒म्ऽयत॑म् । पि॒प्युषी॑म् । इष॑म् । इन्दो॒ इति॑ । पव॑स्व । पव॑मानः । अ॒स्रिध॑म् ।
या । नः॒ । दोह॑ते । त्रिः । अह॑न् । अस॑श्चुषी । क्षु॒ऽमत् । वाज॑ऽवत् । मधु॑ऽमत् । सु॒ऽवीर्य॑म् ॥

सायणभाष्यम्

हेइन्दो दीप्तसोम पवमानस्त्वं नोस्माकं संयतं संगृहीतं पिप्युषीं प्रवृद्धमिषमन्नं अस्रि- धं अक्षीणं आपवस्व प्रयच्छेत्यर्थः । या यादृशी नोस्माकं अहन् अहनि अह्नः त्रिः त्रिषु सवनेषु असश्चुषी अप्रतिबंधादोहते क्षरति । किं क्षुमत् शब्दोपेतं सर्वत्रश्नूयमाणं वाजवत् मधुमत् माधुर्योपेतं सुवीर्यं शोभनसामर्थ्यं पुत्रं दोहते तां इषं पवस्वेति समन्वयः ॥ १८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५