मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८६, ऋक् १९

संहिता

वृषा॑ मती॒नां प॑वते विचक्ष॒णः सोमो॒ अह्न॑ः प्रतरी॒तोषसो॑ दि॒वः ।
क्रा॒णा सिन्धू॑नां क॒लशाँ॑ अवीवश॒दिन्द्र॑स्य॒ हार्द्या॑वि॒शन्म॑नी॒षिभि॑ः ॥

पदपाठः

वृषा॑ । म॒ती॒नाम् । प॒व॒ते॒ । वि॒ऽच॒क्ष॒णः । सोमः॑ । अह्नः॑ । प्र॒ऽत॒री॒ता । उ॒षसः॑ । दि॒वः ।
क्रा॒णा । सिन्धू॑नाम् । क॒लशा॑न् । अ॒वी॒व॒श॒त् । इन्द्र॑स्य । हार्दि॑ । आ॒ऽवि॒शन् । म॒नी॒षिऽभिः॑ ॥

सायणभाष्यम्

अयंसोमः पवते अभिषूयते । कीदृशःसोमः मतीनां मतयः स्तोतारः तेषां वृषा वर्षकः कामानां विचक्षणोविद्रष्टा अह्नः उषसोदिवोद्युलोकस्यादित्यस्यवा प्रतरीता वर्धयिता । किंच सिंधूनां स्यंदमानानां उदकानां क्राणा कर्ता करोतेः शानचि बहुलंछन्दसीति विक- रणस्यलुक् । सुपांसुलुगित्याकारः कलशानवीवशत् कामयते प्रवेष्टुम् । किंकुर्वन् इन्द्रस्यहार्दि हृदयमाविशन् प्रविशन् मनीषिभिः स्तुतइतिशेषः । यद्वा व्यवहितमपि मनीषिभिरित्ये- तत्पवतइत्यनेन संबध्यते ॥ १९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५