मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८६, ऋक् २०

संहिता

म॒नी॒षिभि॑ः पवते पू॒र्व्यः क॒विर्नृभि॑र्य॒तः परि॒ कोशाँ॑ अचिक्रदत् ।
त्रि॒तस्य॒ नाम॑ ज॒नय॒न्मधु॑ क्षर॒दिन्द्र॑स्य वा॒योः स॒ख्याय॒ कर्त॑वे ॥

पदपाठः

म॒नी॒षिऽभिः॑ । प॒व॒ते॒ । पू॒र्व्यः । क॒विः । नृऽभिः॑ । य॒तः । परि॑ । कोशा॑न् । अ॒चि॒क्र॒द॒त् ।
त्रि॒तस्य॑ । नाम॑ । ज॒नय॑न् । मधु॑ । क्ष॒र॒त् । इन्द्र॑स्य । वा॒योः । स॒ख्याय॑ । कर्त॑वे ॥

सायणभाष्यम्

अयंसोमोमनीषिभिर्मेधाविभिरध्वर्य्त्वादिभिः पवते पूयते यद्वायं मनीषिभिः मनीषिणी भिः धाराभिः पवते क्षरति । कीदृशोयं पूर्व्यः पुराणः कविर्मेधावी नृभिर्नेतृभिरध्वर्य्वा- दिभिः यतः नियमितः सन् कोशान् कलशान् प्राप्तुं पर्यचिक्रदत् परिक्रन्दते शब्दंकरोति त्रितस्य त्रिषुस्थानेषु विस्तृतस्येन्द्रस्य यजमानस्यसंबन्धि नाम नामकमुदकं जनयन् उत्पा दयन् मधु मधुरंरसं क्षरत् क्षरति किमर्थं इन्द्रस्य वायोश्च सख्याय कर्तवे सख्यं कर्तुं ॥ २० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५