मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८६, ऋक् २१

संहिता

अ॒यं पु॑ना॒न उ॒षसो॒ वि रो॑चयद॒यं सिन्धु॑भ्यो अभवदु लोक॒कृत् ।
अ॒यं त्रिः स॒प्त दु॑दुहा॒न आ॒शिरं॒ सोमो॑ हृ॒दे प॑वते॒ चारु॑ मत्स॒रः ॥

पदपाठः

अ॒यम् । पु॒ना॒नः । उ॒षसः॑ । वि । रो॒च॒य॒त् । अ॒यम् । सिन्धु॑ऽभ्यः । अ॒भ॒व॒त् । ऊं॒ इति॑ । लो॒क॒ऽकृत् ।
अ॒यम् । त्रिः । स॒प्त । दु॒दु॒हा॒नः । आ॒ऽशिर॑म् । सोमः॑ । हृ॒दे । प॒व॒ते॒ । चारु॑ । म॒त्स॒रः ॥

सायणभाष्यम्

अयं सोमः पुनानः पूयमानः उषसो विरोचयत् विविधं रोचयति । अयं सिंधुभ्यः स्यन्दमानेभ्योद्भ्यो वसतीवरीभ्यः अभवत् समृद्धोभवति उइतिपूरणः कीदृशोयं लोककृत् लोकानांकर्ता वर्षकत्वाद्रेतोधारकत्वाद्वास्यलोककृत्त्वम् । अयं सोमः त्रिःसप्त एकविंशतिंवा ऋत्विङ्मुखेन आशिरं दुदुहानः दुहानः दोहस्यप्रयोजकत्वात्कर्तुरुपचारः मत्सरोमदकरः चारु रमणीयं पवते क्षरति । किमर्थं हृदे हृदयाय हृदयगमनाय ॥ २१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६