मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८६, ऋक् २३

संहिता

अद्रि॑भिः सु॒तः प॑वसे प॒वित्र॒ आँ इन्द॒विन्द्र॑स्य ज॒ठरे॑ष्वावि॒शन् ।
त्वं नृ॒चक्षा॑ अभवो विचक्षण॒ सोम॑ गो॒त्रमङ्गि॑रोभ्योऽवृणो॒रप॑ ॥

पदपाठः

अद्रि॑ऽभिः । सु॒तः । प॒व॒से॒ । प॒वित्रे॑ । आ । इन्दो॒ इति॑ । इन्द्र॑स्य । ज॒ठरे॑षु । आ॒ऽवि॒शन् ।
त्वम् । नृ॒ऽचक्षाः॑ । अ॒भ॒वः॒ । वि॒ऽच॒क्ष॒ण॒ । सोम॑ । गो॒त्रम् । अङ्गि॑रःऽभ्यः । अ॒वृ॒णोः॒ । अप॑ ॥

सायणभाष्यम्

हे इन्दो सोम अद्रिभिः ग्रावभिः सुतोभिषुतस्त्वं पवसे क्षरसि पूयसेवा पवित्रे आ दशापवित्रे । आइतिपूरणः । यद्वा अभिषुतोभवसि पवसेचेति चार्थआकारः । किंकुर्वन् इन्द्रस्य जठरेषु जठरप्रदेशेषु आविशान् जठरप्रदेशायेत्यर्थः । किंच हे विचक्षण विद्रष्टः सोम त्वं नृचक्षाः अभवः नृणां मनुष्याणामनुग्रहेण द्रष्टाभवसि । किंच हे विचक्षण विद्र- ष्टः सोम त्वं नृचक्षाः अभवः नृणां मनुष्याणामनुग्रहेण द्रष्टाभवसि । किंच हे सोम त्वं अंगिरोभ्योगोत्रं मेघमुदकं क्षारयितुं पणिभिरपहृतानां गवामावरकं पर्वतंवा अपावृणोः ॥ २३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६