मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८६, ऋक् २४

संहिता

त्वां सो॑म॒ पव॑मानं स्वा॒ध्योऽनु॒ विप्रा॑सो अमदन्नव॒स्यवः॑ ।
त्वां सु॑प॒र्ण आभ॑रद्दि॒वस्परीन्दो॒ विश्वा॑भिर्म॒तिभि॒ः परि॑ष्कृतम् ॥

पदपाठः

त्वाम् । सो॒म॒ । पव॑मानम् । सु॒ऽआ॒ध्यः॑ । अनु॑ । विप्रा॑सः । अ॒म॒द॒न् । अ॒व॒स्यवः॑ ।
त्वाम् । सु॒ऽप॒र्णः । आ । अ॒भ॒र॒त् । दि॒वः । परि॑ । इन्दो॒ इति॑ । विश्वा॑भिः । म॒तिऽभिः॑ । परि॑ऽकृतम् ॥

सायणभाष्यम्

हे सोम पवमानं त्वां स्वाध्यः सुमतयः सुकर्माणोवा विप्रसोविप्रा मेधाविनः स्तोतारः अवस्यवोरक्षाकामा अन्वमदन् अनुष्टुवन्ति । हे इन्दो त्वां सुपर्णः श्येन आभरत् आहरत् दिवस्परि द्युलोकस्योपरि द्युलोकादित्यर्थः । कीदृशं त्वां विश्वाभिर्मतिभिः सर्वा- भिः स्तुतिभिः परिष्कृतमलंकृतं ॥ २४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६