मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८६, ऋक् २८

संहिता

तवे॒माः प्र॒जा दि॒व्यस्य॒ रेत॑स॒स्त्वं विश्व॑स्य॒ भुव॑नस्य राजसि ।
अथे॒दं विश्वं॑ पवमान ते॒ वशे॒ त्वमि॑न्दो प्रथ॒मो धा॑म॒धा अ॑सि ॥

पदपाठः

तव॑ । इ॒माः । प्र॒ऽजाः । दि॒व्यस्य॑ । रेत॑सः । त्वम् । विश्व॑स्य । भुव॑नस्य । रा॒ज॒सि॒ ।
अथ॑ । इ॒दम् । विश्व॑म् । प॒व॒मा॒न॒ । ते॒ । वशे॑ । त्वम् । इ॒न्दो॒ इति॑ । प्र॒थ॒मः । धा॒म॒ऽधाः । अ॒सि॒ ॥

सायणभाष्यम्

तव दिव्यस्य रेतसः सकाशादिमाःप्रजा उत्पद्यमानाः प्राणिनउत्पन्नाः । सोमोवैरेतोधाइ- ति श्रुतेः । त्वं विश्वस्य भुवनस्य राजसि ईशरोभवसि । अथपिचेदंविश्वं हे पवमान ते वशे त्वदधीनं वर्तते । हे इन्दो प्रथमोमुख्यस्त्वं धामधाः धाम्नोधर्ता असि भवसि ॥ २८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७