मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८६, ऋक् २९

संहिता

त्वं स॑मु॒द्रो अ॑सि विश्व॒वित्क॑वे॒ तवे॒माः पञ्च॑ प्र॒दिशो॒ विध॑र्मणि ।
त्वं द्यां च॑ पृथि॒वीं चाति॑ जभ्रिषे॒ तव॒ ज्योतीं॑षि पवमान॒ सूर्य॑ः ॥

पदपाठः

त्वम् । स॒मु॒द्रः । अ॒सि॒ । वि॒श्व॒ऽवित् । क॒वे॒ । तव॑ । इ॒माः । पञ्च॑ । प्र॒ऽदिशः॑ । विऽध॑र्मणि ।
त्वम् । द्याम् । च॒ । पृ॒थि॒वीम् । च॒ । अति॑ । ज॒भ्रि॒षे॒ । तव॑ । ज्योतीं॑षि । प॒व॒मा॒न॒ । सूर्यः॑ ॥

सायणभाष्यम्

हे कवे क्रान्तप्रज्ञ त्वं यस्मात्समुद्रः वर्षसाधनोपां अतोविशविदसि । यद्वा समुद्रोद्रवा- त्मकोसि विशविच्चासि । किंच तव विधर्मणि विधारणे इमाः पंचप्रदिशः प्रकृष्टादिशोभ- वन्तीतिशॆषः । त्वं द्यांच दिवं च पृथिवींच अतिजभ्रिषे बिभर्षि । हे पवमान सूर्योदेवस्त- वज्योतींषि आप्याययति ॥ २९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७