मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८६, ऋक् ३०

संहिता

त्वं प॒वित्रे॒ रज॑सो॒ विध॑र्मणि दे॒वेभ्य॑ः सोम पवमान पूयसे ।
त्वामु॒शिजः॑ प्रथ॒मा अ॑गृभ्णत॒ तुभ्ये॒मा विश्वा॒ भुव॑नानि येमिरे ॥

पदपाठः

त्वम् । प॒वित्रे॑ । रज॑सः । विऽध॑र्मणि । दे॒वेभ्यः॑ । सो॒म॒ । प॒व॒मा॒न॒ । पू॒य॒से॒ ।
त्वाम् । उ॒शिजः॑ । प्र॒थ॒माः । अ॒गृ॒भ्ण॒त॒ । तुभ्य॑ । इ॒मा । विश्वा॑ । भुव॑नानि । ये॒मि॒रे॒ ॥

सायणभाष्यम्

हे सोम पवमान त्वं रजसोलोकस्य रसस्यवा विधर्मणि विधारके दशापवित्रे देवेभ्यः देवार्थं पूयसे । त्वामुशिजः कामयमाना ऋत्विजः प्रथमाः प्रतमामुख्याः अगृभ्णत गृह्णंति । तुभ्य तुभ्यं इमा इमानि विश्वा सर्वाणि भुवनानि भूतजातानि येमिरे यच्छन्त्यात्मानं ॥ ३० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७