मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८६, ऋक् ३१

संहिता

प्र रे॒भ ए॒त्यति॒ वार॑म॒व्ययं॒ वृषा॒ वने॒ष्वव॑ चक्रद॒द्धरि॑ः ।
सं धी॒तयो॑ वावशा॒ना अ॑नूषत॒ शिशुं॑ रिहन्ति म॒तय॒ः पनि॑प्नतम् ॥

पदपाठः

प्र । रे॒भः । ए॒ति॒ । अति॑ । वार॑म् । अ॒व्यय॑म् । वृषा॑ । वने॑षु । अव॑ । च॒क्र॒द॒त् । हरिः॑ ।
सम् । धी॒तयः॑ । वा॒व॒शा॒नाः । अ॒नू॒ष॒त॒ । शिशु॑म् । रि॒ह॒न्ति॒ । म॒तयः॑ । पनि॑प्नतम् ॥

सायणभाष्यम्

रेभः शब्दयिता । रेभृशब्दे । सोमः अव्ययं अविमयं वारं वालं प्रत्येति प्रकर्षेणातिग- च्छति । वृषा सेक्ता सोमोवनेषूदकेषु अवचक्रदत् अवक्रंदत् । हरिर्हरितवर्णः सोमः । समनू- षत संस्तुवन्ति । के धीतयोध्यातारो वावशाना यागं सोमंवाकामयमानाः शिशुं शिशुव- त्संस्कर्तव्यं सोमं मतयः स्तुतयोरिहन्ति लिहन्ति स्पृशंति स्वविषयीकुर्वन्तीत्यर्थः । कीदृशं पनिप्नतं शब्दयंतं ॥ ३१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८