मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८६, ऋक् ३२

संहिता

स सूर्य॑स्य र॒श्मिभि॒ः परि॑ व्यत॒ तन्तुं॑ तन्वा॒नस्त्रि॒वृतं॒ यथा॑ वि॒दे ।
नय॑न्नृ॒तस्य॑ प्र॒शिषो॒ नवी॑यसी॒ः पति॒र्जनी॑ना॒मुप॑ याति निष्कृ॒तम् ॥

पदपाठः

सः । सूर्य॑स्य । र॒श्मिऽभिः॑ । परि॑ । व्य॒त॒ । तन्तु॑म् । त॒न्वा॒नः । त्रि॒ऽवृत॑म् । यथा॑ । वि॒दे ।
नय॑न् । ऋ॒तस्य॑ । प्र॒ऽशिषः॑ । नवी॑यसीः । पतिः॑ । जनी॑नाम् । उप॑ । या॒ति॒ । निः॒ऽकृ॒तम् ॥

सायणभाष्यम्

ससोमः सूर्यस्यरश्मिभिः परिव्यत परिवेष्टयत्यात्मानम् । किंकुर्वन् त्रिवृतं सवनैर्देवैर्वात्रि- वृतं तंतुं यज्ञं तन्वानः विस्तारयन् । यथा विदे जानाति येनप्रकारेण संपूर्णमवगच्छति तस्माएवं जनीनांपतिः पालकः स्वामी निष्कृतं संस्कृतं पात्रं उपयाति गच्छति ॥ ३२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८