मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८६, ऋक् ३३

संहिता

राजा॒ सिन्धू॑नां पवते॒ पति॑र्दि॒व ऋ॒तस्य॑ याति प॒थिभि॒ः कनि॑क्रदत् ।
स॒हस्र॑धार॒ः परि॑ षिच्यते॒ हरि॑ः पुना॒नो वाचं॑ ज॒नय॒न्नुपा॑वसुः ॥

पदपाठः

राजा॑ । सिन्धू॑नाम् । प॒व॒ते॒ । पतिः॑ । दि॒वः । ऋ॒तस्य॑ । या॒ति॒ । प॒थिऽभिः॑ । कनि॑क्रदत् ।
स॒हस्र॑ऽधारः । परि॑ । सि॒च्य॒ते॒ । हरिः॑ । पु॒ना॒नः । वाच॑म् । ज॒नय॑न् । उप॑ऽवसुः ॥

सायणभाष्यम्

सिन्धूनां नदीनामुदकानां राजा ईश्वरः दिवः पतिः द्युलोकस्यस्वामीसोमः पवते पूयते । ऋतस्य यज्ञस्य पथिभिः मार्गैः कनिक्रदच्छब्दंकुर्वन् याति सहस्रधारोबहुधारायुक्तः सोमोन्रुभीर्नेतृभिः परिषिच्यते पात्रेषु । पुनानः पूयमानोवाचं शब्दं जनयन् उत्पादयन् उपावसुः उपगच्छद्धनः परिषिच्यतइति समन्वयः ॥ ३३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८