मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८६, ऋक् ३४

संहिता

पव॑मान॒ मह्यर्णो॒ वि धा॑वसि॒ सूरो॒ न चि॒त्रो अव्य॑यानि॒ पव्य॑या ।
गभ॑स्तिपूतो॒ नृभि॒रद्रि॑भिः सु॒तो म॒हे वाजा॑य॒ धन्या॑य धन्वसि ॥

पदपाठः

पव॑मान । महि॑ । अर्णः॑ । वि । धा॒व॒सि॒ । सूरः॑ । न । चि॒त्रः । अव्य॑यानि । पव्य॑या ।
गभ॑स्तिऽपूतः । नृऽभिः॑ । अद्रि॑ऽभिः । सु॒तः । म॒हे । वाजा॑य । धन्या॑य । ध॒न्व॒सि॒ ॥

सायणभाष्यम्

हे पवमानसोम मह्यर्णोबहूदकं अर्णइत्युदकनाम रसंवा विधावसि गमयसि । धावुग- तिशुध्योः । किंच सूरोन चित्रः सूर्यइव चित्रः चायनीयः पूज्यःसन् अव्ययानि अविमया- नि पव्यया पात्राणि गच्छसि । किंच गभस्तिपूतोबहुभिरभिशोधितः नृभिरृत्विग्भिः ग्राव- भिश्च सुतोभिषुतो महेमहते वाजाय संग्रामायधन्याय धनेभ्योहिताय धन्वसि गच्छसि । धन्वतिर्गतिकर्मा ॥ ३४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८