मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८६, ऋक् ३५

संहिता

इष॒मूर्जं॑ पवमाना॒भ्य॑र्षसि श्ये॒नो न वंसु॑ क॒लशे॑षु सीदसि ।
इन्द्रा॑य॒ मद्वा॒ मद्यो॒ मदः॑ सु॒तो दि॒वो वि॑ष्ट॒म्भ उ॑प॒मो वि॑चक्ष॒णः ॥

पदपाठः

इष॑म् । ऊर्ज॑म् । प॒व॒मा॒न॒ । अ॒भि । अ॒र्ष॒सि॒ । श्ये॒नः । न । वंसु॑ । क॒लशे॑षु । सी॒द॒सि॒ ।
इन्द्रा॑य । मद्वा॑ । मद्यः॑ । मदः॑ । सु॒तः । दि॒वः । वि॒ष्ट॒म्भः । उ॒प॒ऽमः । वि॒ऽच॒क्ष॒णः ॥

सायणभाष्यम्

हे पवमान पूयमानसोम इषमन्नं ऊर्जं बलंचाभ्यर्षसि । श्योनोन श्योनइव वंसु वननी- येषु कुलायेषु कलशेषु सीदसि निषण्णोभवसि । अथपरोक्षकृतः । इन्द्राय मद्वा मदकरो- मद्योमदहेतुः मदोरसः सुतोभिषुतः । कीदृशः दिवोद्युलोकस्योपमः उपमीयमानोविष्टंभो- विशॆषेणस्तंभयिता स्थूणा यथागृहं तथा तद्वत् विचक्षणोविद्रष्टा । स्थूणेवजनाँउपमिदि- त्युक्तं ॥ ३५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८