मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८६, ऋक् ३७

संहिता

ई॒शा॒न इ॒मा भुव॑नानि॒ वीय॑से युजा॒न इ॑न्दो ह॒रितः॑ सुप॒र्ण्य॑ः ।
तास्ते॑ क्षरन्तु॒ मधु॑मद्घृ॒तं पय॒स्तव॑ व्र॒ते सो॑म तिष्ठन्तु कृ॒ष्टयः॑ ॥

पदपाठः

ई॒शा॒नः । इ॒मा । भुव॑नानि । वि । ई॒य॒से॒ । यु॒जा॒नः । इ॒न्दो॒ इति॑ । ह॒रितः॑ । सु॒ऽप॒र्ण्यः॑ ।
ताः । ते॒ । क्ष॒र॒न्तु॒ । मधु॑ऽमत् । घृ॒तम् । पयः॑ । तव॑ । व्र॒ते । सो॒म॒ । ति॒ष्ठ॒न्तु॒ । कृ॒ष्टयः॑ ॥

सायणभाष्यम्

हे इन्दो सोम ईशानः सर्वस्य स्वामी त्वं इमा इमानि भुवनानि भूतजातानि वीयसे गच्छसि वीगत्यादिषु । किंकुर्वन् हरितोहरितवर्णः सुपर्ण्यः सुपतनाश्चाश्वाः रथे युजानो योजयन् ताः सुपर्ण्यः ते तव संबन्धिन्यः मधुमत् माधुर्योपेतं घृतं दीप्तं पयउदकं क्षरन्तु । हेसोम तव व्रते कर्मणि तिष्ठन्तु कृष्टयोमनुष्याःसर्वे ॥ ३७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९