मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८६, ऋक् ३८

संहिता

त्वं नृ॒चक्षा॑ असि सोम वि॒श्वत॒ः पव॑मान वृषभ॒ ता वि धा॑वसि ।
स नः॑ पवस्व॒ वसु॑म॒द्धिर॑ण्यवद्व॒यं स्या॑म॒ भुव॑नेषु जी॒वसे॑ ॥

पदपाठः

त्वम् । नृ॒ऽचक्षाः॑ । अ॒सि॒ । सो॒म॒ । वि॒श्वतः॑ । पव॑मान । वृ॒ष॒भ॒ । ता । वि । धा॒व॒सि॒ ।
सः । नः॒ । प॒व॒स्व॒ । वसु॑ऽमत् । हिर॑ण्यऽवत् । व॒यम् । स्या॒म॒ । भुव॑नेषु । जी॒वसे॑ ॥

सायणभाष्यम्

हे सोम त्वं विश्वतः सर्वतः भुवनेषु नृचक्षाः नृणांद्रष्टा असि भवसि । हे पवमा- न वृषभ अपांवर्षक ताअपोविधावसि विविधंगच्छसि सत्वं नोस्माकं पवस्व क्षर । किं वसुमत् बहुभिर्वसुभिर्वासकैर्गवादिद्रव्यैर्युक्तं तथा हिरण्यवत् बहुभिहिंरण्यैर्युक्तं धनं वयंच वसुभिर्हिंरण्यैर्युक्ताः भुवनेषु लोकेषु जीवसे जीवितुं प्रभवः स्याम भवेम ॥ १३९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९