मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८६, ऋक् ३९

संहिता

गो॒वित्प॑वस्व वसु॒विद्धि॑रण्य॒विद्रे॑तो॒धा इ॑न्दो॒ भुव॑ने॒ष्वर्पि॑तः ।
त्वं सु॒वीरो॑ असि सोम विश्व॒वित्तं त्वा॒ विप्रा॒ उप॑ गि॒रेम आ॑सते ॥

पदपाठः

गो॒ऽवित् । प॒व॒स्व॒ । व॒सु॒ऽवित् । हि॒र॒ण्य॒ऽवित् । रे॒तः॒ऽधाः । इ॒न्दो॒ इति॑ । भुव॑नेषु । अर्पि॑तः ।
त्वम् । सु॒ऽवीरः॑ । अ॒सि॒ । सो॒म॒ । वि॒श्व॒ऽवित् । तम् । त्वा॒ । विप्राः॑ । उप॑ । गि॒रा । इ॒मे । आ॒स॒ते॒ ॥

सायणभाष्यम्

हे सोम त्वं पवस्व क्षर । कीदृशः गोवित् गवांलंभकः वसुवित् धनस्य लंभकः हिरण्यवित् हिरण्यस्य लंभकः रेतोधाः रेतउदकं तस्य धाता ओषधीनां यद्वा रेतः प्रज- ननसामर्थ्यं तस्य धारयिता भुवनेषु उदकेष्वर्पितः । हे इन्दो सोम त्वं सुवीरः सुवीर्योसि भवसि । विश्व वित्सर्वस्यवेत्ता तं त्वा त्वां इमेविप्रागिरास्तुत्याउपासते ॥ ३९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९