मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८६, ऋक् ४१

संहिता

स भ॒न्दना॒ उदि॑यर्ति प्र॒जाव॑तीर्वि॒श्वायु॒र्विश्वा॑ः सु॒भरा॒ अह॑र्दिवि ।
ब्रह्म॑ प्र॒जाव॑द्र॒यिमश्व॑पस्त्यं पी॒त इ॑न्द॒विन्द्र॑म॒स्मभ्यं॑ याचतात् ॥

पदपाठः

सः । भ॒न्दनाः॑ । उत् । इ॒य॒र्ति॒ । प्र॒जाऽव॑तीः । वि॒श्वऽआ॑युः । विश्वाः॑ । सु॒ऽभराः॑ । अहः॑ऽदिवि ।
ब्रह्म॑ । प्र॒जाऽव॑त् । र॒यिम् । अश्व॑ऽपस्त्यम् । पी॒तः । इ॒न्दो॒ इति॑ । इन्द्र॑म् । अ॒स्मभ्य॑म् । या॒च॒ता॒त् ॥

सायणभाष्यम्

ससोमः विश्वायुः सर्वस्यगन्ता सोमः प्रजावतीः प्रजारूपफलदात्र्यः सुभराः सुष्ठु ह्रिय माणा विश्वाः सर्वाभन्दनाः स्तुतीः उदियर्ति उत्कृष्टं प्रेरयति । कस्मिन्काले उच्यते । अह- र्दिवि अहोरात्रयोश्च । अथ प्रत्यक्षकृतः । ब्रह्मपरिवृढंफर्म प्रजावत् प्रजाभिर्युक्तं प्रजाफलकमि त्यर्थः । यद्वा ब्रह्मअन्नं तत्त्व प्रजावत् प्रजाद्युपेतं तथा रयिंधनं कीदृशं अशपस्त्यं व्याप्त- गृहं तदुभयं हे इन्दो दीप्तसोम पीत इन्द्रेण पीतस्त्वं त्वमेवेन्द्रमस्मभ्यं याचतात् याचस्व ॥ ४१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०